दुरुद्वहाः क्षणमपरैस्तदन्तरे
रणश्रवादुपचयमाशु बिभ्रति ।
महीभुजां महिमभृतां न संममु-
र्मुदोऽन्तरावपुषि बहिश्च कञ्चुकाः ॥

मल्लिनाथः दुरुद्वहा इति ॥ महिमभृतामैश्वर्यवतां महीभुजां राज्ञां संबन्धिनी रणश्रवाद्युद्धश्रवणादाशु शीघ्रमुपचयं वृद्धिं बिभ्रति बिभ्राणे वपुषि अपरैरन्यैः क्षणं क्षणमपि दुरुद्वहा दुर्भराः मुदः संतोषाः अन्तरा अन्तराले न संममुः । बहिः कञ्जुकाश्च न संममुः न मान्ति स्म । नावर्तन्तेत्यर्थः । पूर्वत्र आधेयाधिक्यादुत्तरत्राधाराधिक्यादिति विवेकः । अत्र मुदां कञ्चुकानां च प्रकृतानामेव विशेषणसाम्यादौपम्यगतायां केवलकृतास्पदा तुल्ययोगिता
छन्दः रुचिरा [१३: जभसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
दु रु द्व हाः क्ष रै स्त न्त रे
श्र वा दु मा शु बि भ्र ति
ही भु जां हि भृ तां सं मु
र्मु दो ऽन्त रा पु षि हि श्च ञ्चु काः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.