निराकृते यदुभिरिति प्रकोपिभिः
स्पशे शनैर्गतवति तत्र विद्विषाम् ।
मुरद्विषः स्वनितभयानकानकं
बलं क्षणादथ समनह्यताजये ॥

मल्लिनाथः निराकृत इति ॥ तत्र सदसि इतीत्थं प्रकोपिभिरतिक्रुद्धैर्यदुभिः विद्विषां स्पशे चरे । `अपसर्पश्चरः स्पशः` इत्यमरः । निराकृते धिक्कृते शनैर्गतवति गच्छति सति । सागसोऽपि दूतस्यावध्यत्वादिति भावः । अथ दूतगमनानन्तरं स्वनितेन ध्वनिना भयानका भयंकरा आनकाः पटहा यस्मिंस्तन्मुरद्विषो बलं क्षणादाजये युद्धाय समनह्यत संनद्धम्
छन्दः रुचिरा [१३: जभसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
नि रा कृ ते दु भि रि ति प्र को पि भिः
स्प शे नै र्ग ति त्र वि द्वि षाम्
मु द्वि षः स्व नि या का कं
लं क्ष णा ह्य ता ये
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.