Loading data... On slow networks this could take a few minutes.
100%

सकुङ्कुमैरविरलमम्बुबिन्दुभि-
र्गवेषणः परिणतदाडिमारुणैः ।
स मत्सरस्फुटितवपुर्विनिःसृतै-
र्बभौ चिरं निचित इवासृजां लवैः ॥

मल्लिनाथः सकुङ्कुमैरिति ॥ स प्रसिद्धो गवेषणो नाम राजा सकुङ्कुमैः सर्वाङ्गीणकश्मीरजलेपैरित्यर्थः । अत एव परिणतदाडिमारुणैः परिपक्वदाडिमबीजरक्तैरम्बुबिन्दुभिः । क्रोधसात्त्विकैः स्वेदबिन्दुभिरित्यर्थः । मत्सरेणान्तःसंभृतेनात्युत्कटवैरेण स्फुटितान्निभिन्नाद्वपुषो विनिःसृतैरसृजां लवैरसृग्बिन्दुभिरविरलं निरन्तरं निचितो व्याप्त इव चिरं बभौ । उत्प्रेक्षा
छन्दः रुचिरा [१३: जभसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
कु ङ्कु मै वि म्बु बि न्दु भि
र्ग वे णः रि दा डि मा रु णैः
त्स स्फु टि पु र्वि निः सृ तै
र्ब भौ चि रं नि चि वा सृ जां वैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.