Loading data... On slow networks this could take a few minutes.
100%

ससंभ्रमं चरणतलाभिताडन-
स्फुटन्महीविवरवितीर्णवर्त्मभिः ।
रवेः करैरनुचिततापितोरगं
प्रकाशतां शिनिरनयद्रसातलम् ॥

मल्लिनाथः ससंभ्रममिति ॥ शिनिः सात्यकेः पितामहः ससंभ्रमं ससत्वरं चरणतलाभिताडनेन पादतलाभिघातेन स्फुटन्त्या दलन्त्या मह्या विवरैश्छिद्रैर्वितीर्णवर्त्मभिर्दत्तमार्गः । तत्प्रसरणैरित्यर्थः । रवेः करैरनुचितं पूर्वमपरिचितमिदं यथा तथा तापिताः संतापं गमिता उरगा यस्मिंस्तत् रसातलं प्रकाशतां प्रकटत्वमनयत् । अत्र महीरविकरोरगरसातलानां क्रमेण स्फुटनान्तःप्रवेशतापप्रकाशनैरसंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः । पादाहननैरमानुषीं तीव्रतां व्रजति स्मेति ध्वनिः
छन्दः रुचिरा [१३: जभसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
सं भ्र मं ला भि ता
स्फु न्म ही वि वि ती र्ण र्त्म भिः
वेः रै नु चि ता पि तो गं
प्र का तां शि नि द्र सा लम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.