विवर्तयन्मदकलुषीकृते दृशौ
कराहतक्षितिकृतभैरवावरवः ।
क्रुधा दधत्तनुमतिलोहिनीमभू-
त्प्रसेनजिद्गज इव गैरिकारुणः ॥

मल्लिनाथः विवर्तयन्निति ॥ मदो मद्यविकारो दानं च । `मदो मद्येभदानयोः` इति विश्वन कलुषीकृत आकुलीकृते दृशौ विवर्तयन्पूर्णयन्करेण पाणिना शुण्डा. दण्डेन चाहतायां क्षितौ भूमौ कृतो भैरवारवो भयंकरध्वनिर्येन सः । क्रोधात्सध्वानं करेण क्षितिमाघ्नन्नित्यर्थः । क्रुधा क्रोधेन अतिलोहिनीमतिलोहिताम् । लिट् ।&#३२; `वर्णादनुदात्तात्तोपधात्तो नः` (१९३९) इति विकल्पान्ङीष् तकारस्य च नकारः । तनुं वपुर्दधत्प्रसेनजिन्नाम राजा गैरिकारुणो धातुरक्तो गज इवाभूत् । तद्वदलक्ष्यतेत्यर्थः
छन्दः रुचिरा [१३: जभसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
वि र्त न्म लु षी कृ ते दृ शौ
रा क्षि ति कृ भै वा वः
क्रु धा त्त नु ति लो हि नी भू
त्प्र से जि द्ग गै रि का रु णः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.