विलङ्घितस्थितिमभिवीक्ष्य रुक्षया
रिपोर्गिरागुरुमपि गान्दिनीसुतम् ।
जनैस्तदा युगपरिवर्तवायुभि-
र्विवर्तिता गिरिपतयः प्रतीयिरे ॥

मल्लिनाथः विलचितेति ॥ गुरुं स्वभावतो धीरमपि सन्तं रूक्षया परुषया रिपोर्गिरा दूतवाचा विलचितस्थितिमुल्लचितमर्यादं क्रोधादुन्मर्यादम् । विकुर्वाणमित्यर्थः । गान्दिनीसुतमक्रूरमभिवीक्ष्य जनैस्तदा अक्रूरविक्रियालोकनसमये युगपरिवर्तवायुभिः कल्पान्तवातैर्विवर्तिताः स्थानादुच्चालिता गिरिपतयोऽद्रयः प्रतीयिरे विशश्वसिरे । अक्रूरविक्रियादर्शनागिरिचलनमपि युगान्ते संभावितमेवेति जनैर्विश्वस्तमित्यर्थः । `प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु` इत्यमरः । प्रतिपूर्वादिणः कर्मणि अत्र कल्पान्ते गिरिचलनविक्रियाकल्पेयमरविक्रियेति वाक्यभेदेन सादृश्याक्षेपान्निदर्शनालंकारः । तेनाङ्करस्य लोकोत्तरं धैर्य नैसर्गिकमिति वस्तु व्यज्यते
छन्दः रुचिरा [१३: जभसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
वि ङ्घि स्थि ति भि वी क्ष्य रु क्ष या
रि पो र्गि रा गु रु पि गा न्दि नी सु तम्
नै स्त दा यु रि र्त वा यु भि
र्वि र्ति ता गि रि यः प्र ती यि रे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.