विचिन्तयन्नुपनतमाहवं रसा-
दुरः स्फुरत्तनुरुहमग्रपाणिना ।
परामृशत्कठिनकठोरकामिनी-
कुचस्थलप्रमुषितचन्दनं पृथुः ॥

मल्लिनाथः विचिन्तयन्निति ॥ पृथु म राजा उपनतं प्राप्तमाहवं युद्धं रसागणरागा. द्विचिन्तयन् कदेति ध्यायन् कठिनेन कर्कशेन कठोरेण प्रवृद्धेन कामिन्याः कुचस्थलेन प्रमुषितमपहृतं चन्दनं यस्य तत् । एतेनास्य सुरतसमरयोः समरसत्वं व्यज्यते । अत एव स्फुरत्तनुरुहमुदञ्चत्पुलकमुरः अग्रश्चासौ पाणिश्चेति समानाधिकरणसमासः । अत एव `हस्ताग्राग्रहस्तादयो गुणगुणिनोभेंदाभेदयो रिति वामनः । तेनाप्रपाणिना पाणितलेन परामृशत्परामृष्टवान् । रणकण्डूलपाणित्वादिति भावः । अत एव यदन्येषां रोषजनकं दूतवाक्यं तदागामिरणकारणतयास्य हर्षहेतुरिति श्लोकार्थः
छन्दः रुचिरा [१३: जभसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
वि चि न्त न्नु मा वं सा
दु रः स्फु त्त नु रु ग्र पा णि ना
रा मृ त्क ठि ठो का मि नी
कु स्थ प्र मु षि न्द नं पृ थुः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.