दुरीक्षतामभजत मन्मथस्तथा
यथा पुरा परिचितदाहधार्ष्ट्याया ।
ध्रुवं पुरः सशरममुं तृतीयया
हरोऽपि न व्यसहत वीक्षितुं दृशा ॥

मल्लिनाथः दुरीक्षतामिति ॥ मन्मथः प्रद्युम्नावतारः कामस्तथा दुरीक्षतां दुर्दिनत्वम् । ईक्षतेः खलन्तात्तल्प्रत्ययः । अभजत । यथा हरोऽपि पुरा पूर्वजन्मनि परिचितमभ्यस्तं दाहधाष्ट्यं दहनसाहसं यस्यास्तया तृतीयया दृशा सशरममुं मन्मर्थ ध्रुवं पुनर्वीक्षितुं न व्यसहत न शक्तः । `परिनिविभ्यः सेवसितसयसिवुसहसुदः स्तुस्वञ्जाम्` (८३३७०) `सिवादीनां वाड्व्यवायेऽपि` (अष्टाध्यायी ८.३.७१ ) इति विकल्पान्ने पत्वम् । अनयोत्प्रेक्षया रुद्रस्यापि भीषणः किमुतान्येषामिति वस्तु व्यज्यते
छन्दः रुचिरा [१३: जभसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
दु री क्ष ता न्म स्त था
था पु रा रि चि दा धा र्ष्ट्या या
ध्रु वं पु रः मुं तृ ती या
रो ऽपि व्य वी क्षि तुं दृ शा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.