विनिहत्य भवन्तमूर्जितश्री-
युधि सद्यः शिशुपालतां यथार्थाम् ।
रुदतां भवदङ्गनागणाना-
ङ्करुणान्तःकरणः करिष्यतेऽसौ ॥

मल्लिनाथः इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्र्यङ्के दूतसंवादो नाम षोडशः सर्गः ॥ १६ ॥ विनिहत्येति ॥ ऊर्जितश्रीरधिकैश्वर्योऽसौ राजा युधि भवन्तं सद्यो विनिहत्य हत्वा रुदतां क्रन्दतां भवेदङ्गनागणानां करुणान्तःकरणः कृपाविष्टचित्तः सन् शिशुपालतां यथार्थां करिष्यते । अङ्गनागणान्प्रति तच्छिशुपालनेन निजां शिशुपालसंज्ञामन्वर्थां करिष्यतीत्यर्थः । अत्र रोदनकरुणापदार्थयोर्विशेषणगत्या क्रमात्करुणाशिशुपालनहेतुकत्वात्काव्यलिङ्गयोः संकरः । औपच्छन्दसिकं वृत्तम्
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
वि नि त्य न्त मू र्जि श्री
यु धि द्यः शि शु पा तां था र्थाम्
रु तां ङ्ग ना णा ना
ङ्क रु णा न्तः णः रि ष्य ते ऽसौ
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.