Loading data... On slow networks this could take a few minutes.
100%

इतीरिते वचसि वचस्विनामुना
युगक्षयक्षुभितमरुद्गरीयसि ।
प्रचक्षुभे सपदि तदम्बुराशिना
समं महाप्रलयसमुद्यतं सदः ॥

मल्लिनाथः इतीति ॥ इतीत्थममुना वचस्त्रिना वाग्मिना । `मनस्विना` इति पाठे मनस्विना धीरेण दूतेन युगक्षये कल्पान्ते क्षुभित उद्धतो मरुत्तद्वद्गरीयसि वचसि ईरिते सति । तदम्बुराशिना युगक्षयवर्धिना समं तुल्यं यथा तथा सदो हरेरास्थानं महाप्रलये सर्वसंहारे समुद्यतमुद्युक्तं सत् सपदि प्रचुक्षुभे प्रचुकोप । कल्पोद्धतमहामारुतेन महार्णव इव तद्वचनेन तत्सदः क्षुभितमासीदित्यर्थः । उपमा । रुचिरा वृत्तम् । `चतुर्ग्रहैरिह रुचिरा जभस्जगा` इति लक्षणात्
छन्दः रुचिरा [१३: जभसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
ती रि ते सि स्वि ना मु ना
यु क्ष क्षु भि रु द्ग री सि
प्र क्षु भे दि म्बु रा शि ना
मं हा प्र मु द्य तं दः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.