लोकालोकव्याहतं घर्मरश्मेः
शालीनं वा धाम नालं प्रसर्तुम् ।
लोकस्याग्रे पश्यतो धृष्टमाशु
क्रामत्युच्चैर्भूभृतो यस्य तेजः ॥
लोकालोकव्याहतं घर्मरश्मेः
शालीनं वा धाम नालं प्रसर्तुम् ।
लोकस्याग्रे पश्यतो धृष्टमाशु
क्रामत्युच्चैर्भूभृतो यस्य तेजः ॥
शालीनं वा धाम नालं प्रसर्तुम् ।
लोकस्याग्रे पश्यतो धृष्टमाशु
क्रामत्युच्चैर्भूभृतो यस्य तेजः ॥
मल्लिनाथः
लोकालोकेत्यादि ॥ लोक्यते आलोक्यते च पार्थान्तरेणेति लोकालोकः । `लोकालोकश्चक्रवालः` इत्यमरः । विशेषणसमासः । तेन व्याहतं निरुद्धप्रसारं लोकस्यालोकेन चक्षुःप्रकाशेन व्याहतमित्यपि स्फुरति । अत एव शालीनमधष्टता । लज्जया भग्नधार्ष्ट्यमिवेत्यर्थः । `शालीनकौपीने अदृष्टाकार्ययोः` (अष्टाध्यायी ५.२.२० ) इति निपातः । इवार्थे वाशब्दः तद्वदुत्प्रेक्षा । धर्मरश्मेर्धाम तेजः पश्यतो लोकस्याग्रे उच्चैर्भूभृतः पर्वतान् राज्ञश्च प्रसर्तुं व्याप्तुं नालं न समर्थम् । लोकालोकव्याप्तस्य लोकाग्रे संचारत्वादित्यर्थः । यस्य राज्ञस्तु तेजः पश्यतो लोकस्याग्रत एव पृष्टं केनाप्यव्याहतत्वात्प्रगल्भं सत् उच्चैर्भूभृतो राज्ञः पर्वतांश्च कामति व्यानोति । अत्राप्रतिहतप्रतापत्वेन राज्ञः सूर्यादाधिक्याव्यतिरेकः स च द्वयोर्लोकालोकयोर्द्वयानां भूभृतामभेदाध्यवसायाच्छेषमूलातिशयोक्त्युत्थापितया शालीनत्वोप्रेक्षया संकीर्यते । शालिनी वृत्तमेतत्
छन्दः
शालिनी [११: मततगग]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ |
|---|---|---|---|---|---|---|---|---|---|---|
| लो | का | लो | क | व्या | ह | तं | घ | र्म | र | श्मेः |
| शा | ली | नं | वा | धा | म | ना | लं | प्र | स | र्तुम् |
| लो | क | स्या | ग्रे | प | श्य | तो | धृ | ष्ट | मा | शु |
| क्रा | म | त्यु | च्चै | र्भू | भृ | तो | य | स्य | ते | जः |
| म | त | त | ग | ग | ||||||
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.