भूयांस क्वचिदपि काममस्खलन्त-
स्तुङ्गत्वं दधति च यद्यपि द्वयेऽपि ।
कल्लोलाः सलिलनिधेरवाप्य पारं
शीर्यन्ते न गुणमहोर्मयस्तदीयाः ॥
भूयांस क्वचिदपि काममस्खलन्त-
स्तुङ्गत्वं दधति च यद्यपि द्वयेऽपि ।
कल्लोलाः सलिलनिधेरवाप्य पारं
शीर्यन्ते न गुणमहोर्मयस्तदीयाः ॥
स्तुङ्गत्वं दधति च यद्यपि द्वयेऽपि ।
कल्लोलाः सलिलनिधेरवाप्य पारं
शीर्यन्ते न गुणमहोर्मयस्तदीयाः ॥
मल्लिनाथः
भूयांस इति ॥ द्वयेऽपि समुद्रोर्मयो गुणोर्मयश्चेति द्वितया अप्यूर्मय इति । द्वेस्तयप् तस्य `द्वित्रिभ्याम्-` (अष्टाध्यायी ५.२.४३ ) इत्यनेनायजादेशः `प्रथमचरम-` (अष्टाध्यायी १.१.३३ ) इत्यादिना जसि विभाषया सर्वनामसंज्ञा । भूयांसो बहुतराः क्वचिदप्यस्खलन्तः । अप्रतिहतप्रसरा इत्यर्थः । कामं तुङ्गत्वं दधति यद्यपि दधत्येव । `यद्यपीत्यवधारणे` इति केशवः । तथापीति शेषः । सलिलनिधेः समुद्रस्य कल्लोला महोर्मयः । अथोर्मिषु । महत्सूल्लोलकल्लोलौ` इत्यमरः । पारं तीरमवाप्य शीर्यन्ते विलीयन्ते । शीर्यतेर्दैवादिकाकर्तरि लट् । तदीया गुणमहोर्मयस्तु पारमवाप्यापि न शीर्यन्ते । अत्र गुणमहोर्मीणां भूयस्त्वादिसाधर्म्यण गुरुत्वेन समुद्रस्याधिक्याव्यतिरेकः । अनेन राज्ञोऽपि समुद्रादाधिक्यं व्यज्यते । प्रहर्षिणी वृत्तम्
छन्दः
प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ | १२ | १३ |
|---|---|---|---|---|---|---|---|---|---|---|---|---|
| भू | यां | स | क्व | चि | द | पि | का | म | म | स्ख | ल | न्त |
| स्तु | ङ्ग | त्वं | द | ध | ति | च | य | द्य | पि | द्व | ये | ऽपि |
| क | ल्लो | लाः | स | लि | ल | नि | धे | र | वा | प्य | पा | रं |
| शी | र्य | न्ते | न | गु | ण | म | हो | र्म | य | स्त | दी | याः |
| म | न | ज | र | ग | ||||||||
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.