Loading data... On slow networks this could take a few minutes.
100%

यामूढवानूढवराहमूर्ति-
र्मुहूर्तमादौ पुरुषः पुराणः ।
तेनोह्यते सांप्रतमक्षतैव
क्षतारिणा सम्यगसौ पुनर्भूः ॥

मल्लिनाथः यामिति ॥ यां भुवमादौ पूर्वं पुराणः पुरुषो विष्णुः ऊढवराहमूर्तितवराहशरीरः, स च नतु स्वरूपेणेति भावः । मुहूर्त क्षणमात्रमूढवान् धृतवान् क्षतारिणा संहृतसकुलविपक्षेण अत एवैनां पुनस्तेन राज्ञा । अविकृतेनेति भावः । अक्षतैव विपक्षरेनुपद्रुतैवासौ भूः सांप्रतमद्यापि न तु मुहूर्तमिति भावः । सम्यक् यथाशास्त्रमुह्यते धार्यते । वहेः कर्मणि लट् `वचिस्वपि-` (अष्टाध्यायी ६.१.१५ ) इत्यादिना संप्रसारणम् । अत्र राज्ञो विष्णोराधिक्यकथनाव्यतिरेकः । अत्र ध्वनिः । कश्चिद्वृद्धः स चोढवराहमूर्तिर्यामविकृतिमादौ प्रथमं मुहूर्तमूढवान्परिणीतवानिति भावः । अत एव अक्षता पूर्वेण अक्षतयोनिका । अत एवासौ भूर्वोढुः क्षतारिणा । शौर्यादिगुणाढ्येनेत्यर्थः । तेन केनचिद्युना सांप्रतं पुनरुह्यते पुनः परिणीयते । `सा चेदक्षतयोनिः स्यात्पुनःसंस्कारमर्हति` ( ) इति स्मरणादिति सा पुनर्भूरुच्यते इति योज्यम् । `पुनर्भूदिधिषूरूढा द्विस्तस्या दिधिषुः पतिः` इत्यमरः । अत्राभिधायाः प्रकृतार्थ एव नियन्त्रणादप्रकृतार्थप्रतीतेनिरेव
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
या मू वा नू रा मू र्ति
र्मु हू र्त मा दौ पु रु षः पु रा णः
ते नो ह्य ते सां प्र क्ष तै
क्ष ता रि णा म्य सौ पु र्भूः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.