नयति द्रुतमुद्धतिश्रितः
प्रसभं भङ्गमभङ्गुरोदयः ।
गमयत्यवनीतलस्फुर-
द्भुजशाखं भृशमन्यमुन्नतिम् ॥

मल्लिनाथः नयतीति ॥ यः तटद्रुमैः सरितामुदकस्य पूर एव भूभृतां गणैः क्रीडतीति चतुर्थे वक्ष्यति । तं क्रीडाप्रकारं त्रिभिर्वर्णयति । अभङ्गुरोदयः स्थिरवृद्धिः य उद्धतिश्रित औद्धत्यभाजः । अनम्रानिति यावत् । श्रयतेः विप् । नृपान् द्रुमांश्चेत्यर्थः । द्रुतं शीघ्रं प्रसभं प्रसह्य भङ्गं नयति । अवनीतले स्फुरन्त्यौ भुजौ शाखे इव भुजशाखे यस्य तम् । भुजौ प्रसार्य भुवि प्रणिपतितमित्यर्थः । अन्यं नृपं, द्रुमं च वेतसादिकं भृशमुन्नतिं गमयति
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
ति द्रु मु द्ध ति श्रि तः
प्र भं ङ्ग ङ्गु रो यः
त्य नी स्फु
द्भु शा खं भृ न्य मु न्न तिम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.