Loading data... On slow networks this could take a few minutes.
100%

अधिगम्य च रन्ध्रमन्तरा
जनयन्मण्डलभेदमन्यतः ।
खनति क्षतसंहति क्षणा-
दपि मूलानि महान्ति कस्यचित् ॥

मल्लिनाथः अधिगम्येति ॥ किंचेति चार्थः । अन्तरा मण्डलमध्ये, आलवालमध्ये च रन्ध्रमवकाशं शुषिरं चाधिगम्य । अन्यतः मण्डलस्यामात्यादिचक्रस्य भेदमुपजापं जनयन् , अन्यत्र मण्डलस्याधारदेशस्य भेदं विदारणं कुर्वन्नित्यर्थः । क्षता संहतिरैकमत्यं, मूलानामाश्लेषश्च यस्मिन्कर्मणि तद्यथा तथा क्षणात्कस्यचिद्राज्ञः, दुमस्य च महान्ति मूलानि मुख्याञ्जनानपि खनति तापयति, अन्यत्रादीनपि खनत्यवदारयति
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
धि म्य न्ध्र न्त रा
न्म ण्ड भे न्य तः
ति क्ष सं ति क्ष णा
पि मू ला नि हा न्ति स्य चित्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.