भूतभूतिरहीनभोगभाग्विजितानेकपुरोऽपि विद्विषाम् । रुचिमिन्दुदले करोत्यजः परिपूर्णेन्दुरुचिर्महीपतिः ॥

मल्लिनाथः भृतेति ॥ भृता भूतिर्भस्म, संपच्च येन स भृतभूतिः । `भूतिर्भस्मनि संपदि` इत्यमरः । अहीनां भोगिनामीनोऽहीनः शेषः तस्य भोगं कायं भजतीत्यहीनभोगभाक् । शेषभूषण इत्यर्थः । अन्यत्र अहीनमन्यूनं भोगं सुखानुभवं भजतीत्यहीनभोगभाक् । `भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः` इत्यमरः । विद्विषां विजितानेकपुरः । विजितानेकविद्विदपुर इत्यर्थः । एकत्र त्रिपुरविजयादन्यत्र शत्रुनगरविजयाच्चेति भावः । सापेक्षत्वेऽपि गमकत्वात्समासः । एवंभूतोऽप्यजो हरः । `अजा विष्णुहरच्छागाः` इत्यमरः । इन्दुदले चन्द्रखण्डे विषये रुचिमभिलाषं करोति । इन्दुदले या रुचिः शोभा तां करोति दधातीति चार्थः । सामान्यशब्देन विशेषलक्षणा । महीपतिस्तु परिपूर्णेन्दो रुचिरिव रुचिः शोभा यस्य सः तस्मिन् रुचिरभिलाषो यस्येति च परिपूर्णेन्दुरुचिः । `रुचिर्मयूखे शोभा यामभिषङ्गाभिलाषयोः` इति विश्वः । अत्र हरः खण्डेन्दुरुचिः, राजा पूर्णेन्दुरुचिरिति व्यतिरेकः । स च रुच्योरभेदाश्रयादिति श्लेषमूलामेदातिशयोक्त्या संकीर्णः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.