Loading data... On slow networks this could take a few minutes.
100%

अविचालितचारुचक्रयो-
रनुरागादुपगूढयोः श्रिया ।
युवयोरिदमेव भिद्यते
यदुपेन्द्रस्त्वमतीन्द्र एव सः ॥

मल्लिनाथः अविचालितेति ॥ अविचालितं परैरपर्यासितं अत एव चारु शोभनं चक्रं सुदर्शनं, राष्ट्रं च ययोस्तयोः । `चक्र राष्ट्ररथाङ्गयोः` इति विश्वः । श्रिया कमलया, संपदा चानुरागादुपगूढयोराश्लिष्टयोर्युवयोस्तव तस्य च । `त्यदादीनि सर्वैर्नित्यम्` (अष्टाध्यायी १.२.७२ ) इत्येकशेषः । इदमेव भिद्यते विशेष्यते । कर्मकर्तरि लट् । किं तदित्यत्राह-त्वमिन्द्रमुपगत उपेन्द्र इन्द्रानुजः। तदनुचर इति यावत् । स तु इन्द्रमतिक्रान्तः अतीन्द्रः । इन्द्रविजयीति यावत् । इदमेव भिद्यते इति संबन्धः । इन्द्रकिङ्करेन्द्रजयिनोः का साम्यकथेति भावः । अत्रोपमानात्कृष्णादुपमेयस्य चैद्यस्याधिक्याद्भेदप्राधान्यसाधोक्तेर्व्यतिरेकालंकारः
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
वि चा लि चा रु क्र यो
नु रा गा दु गू योः श्रि या
यु यो रि मे भि द्य ते
दु पे न्द्र स्त्व ती न्द्र सः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.