स्वभुजद्वयकेवलायुध-
श्चतुरङ्गामपहाय वाहिनीम् ।
बहुशः सह शक्रदन्तिना
स चतुर्दन्तमगच्छदाहवम् ॥

मल्लिनाथः स्वेति॥ स चैद्यश्चत्वार्यङ्गानि हस्त्यादीनि यस्यास्तां चतुरङ्गा वाहिनी सेनामपहाय स्वभुजद्वयं केवलमेकमायुधं यस्य सः सन् शक्रदन्तिना ऐरावतेन सह । चत्वारो दन्ता यस्मिंस्तं चतुर्दन्तम् । आहवं रणं बहुशोऽगच्छत् । चतुर्दन्तेन शक्रदन्तिना दोर्द्वयेन योद्धं चैद्यं विना कोऽन्यः शक्त इति भावः । दन्तिनोराहवश्चतुर्दन्त इत्युक्तं नतु मनुष्यदन्तिनोरिति विरोधः, स च शक्रदन्तिनेति परिहृतः, तस्य चतुर्दन्तत्वादिति विरोधाभासः
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
स्व भु द्व के ला यु
श्च तु ङ्गा हा वा हि नीम्
हु शः क्र न्ति ना
तु र्द न्त च्छ दा वम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.