न चिकीर्षति यः स्मयोद्धतो नृपतित्तच्चरणोपपगं शिरः । चरणं कुरुते गतस्मयः स्मसावेव तदीयमूर्धनि ॥

मल्लिनाथः नेति ॥ स्मयोद्धतो गर्वेण दुर्विनीतो नृपतिः शिरो निजोत्तमाङ्गं तस्य शिशुपालस्य चरणमुपगच्छतीति तच्चरणोपगं तत्पादगतं यो न चिकीर्षति कर्तुं नेच्छति तदीये तस्य नृपतेः संबन्धिनि मूर्धनि गतस्मयो विगर्वोऽसौ शिशुपाल एव खं चरणं कुरुते । निधत्त इत्यर्थः । अनम्रान् सद्यो नमयति नम्रानवतीति तात्पर्यम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.