चलितोर्ध्वकबन्धसम्पदो
मकरव्यूहनिरूद्धवर्त्मनः ।
अतरत्स्वभुजौजसा मुहु-
र्महतः सङ्गरसागरानसौ ॥

मल्लिनाथः चलितेति ॥ असौ चैद्यश्चलिताः प्रवृत्ता ऊर्ध्वा उत्थिताः कबन्धसंपदः शिरोहीनकलेवरसंपद एव कबन्धसंपद उदकसमृद्धयो येषु तान् । इति श्लिष्टरूपकम् । `कबन्धं सलिले प्रोक्तमपमूर्धकलेवरे` इति वैजयन्ती । मकरव्यूहाः मकराकारसैन्यविन्यासाः त एव मकरव्यूहा मकरादयः समूहाः इति श्लिष्टरूपकम् । `व्यूहौ समूहविन्यासौ` इति वैजयन्ती । तैर्निरुद्धवर्त्मनो निरुद्धप्रवेशमार्गान् । अत एव महतो दुस्तरान्संगरसागरान्समरसमुद्रान्स्वभुजौजसा निजभुजबलेनैव मुहुरसकृदतरत् । भुजेनाब्धितरणमदृष्टचरमत्यद्भुतमिति भावः । अत्र कबन्धा एव कबन्धाः मकरव्यूहा एव कच्छपादिव्यूहा इति श्लिष्टरूपकस्य संगरेषु सागररूपेणहेतुत्वात्केवलं श्लिष्टपरम्परितरूपकम्
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
लि तो र्ध्व न्ध म्प दो
व्यू नि रू द्ध र्त्म नः
त्स्व भु जौ सा मु हु
र्म तः ङ्ग सा रा सौ
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.