अतिविस्मयनीयकर्मणो
नृपतेर्यस्य विरोधि किञ्चन ।
यदुमुक्तनयो नयत्यसा-
वहितानां कुलमक्षयं क्षयम् ॥

मल्लिनाथः अतीति ॥ अतिविस्मयनीयकर्मणोऽत्यन्तविस्मितपौरुषस्य । स्मयतेरनीयर्प्रत्ययः । यस्य नृपतेश्चैद्यस्य विरोधि चेष्टितं द्वेषिरूपं । न किंचिदस्तीत्यर्थः । यस्मादमुक्तनयोऽत्यक्तनीतिमार्गोऽसौ अक्षयमविनाशि । पूर्व केनापि क्षयं न नीतमित्यर्थः । अहितानां कुलं शत्रुजातं क्षयं नाशं नयति । नीतिपौरुषाभ्यां द्विषन्निर्मूलयितुरस्य का विरोधिवातेति भावः । अक्षयमपि क्षयं नयतीति विरोधस्य नेतृभेदेन परिहाराद्विरोधाभासोऽलंकारः
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
ति वि स्म नी र्म णो
नृ ते र्य स्य वि रो धि कि ञ्च
दु मु क्त यो त्य सा
हि ता नां कु क्ष यं क्ष यम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.