दधतोऽसुलभक्षयागमा-
स्तनुमेकान्तरताममानुषीम् ।
भुवि सम्प्रति न प्रतिष्ठिताः
सदृशा यस्य सुरैररातयः ॥

मल्लिनाथः दधत इति ॥ असुलभक्षयागमाः दुर्लभगृहप्राप्तयः, अन्यत्रामरत्वाद्दुर्लभनाशयोगाः । `निलयापचयौ क्षयौ` इत्यमरः । एकान्तरतां भयाद्विजनस्थाने निरताममानुषीं कार्यमालिन्यादिना पिशाचादिवत्प्रतीयमानाम्, अन्यत्रैकान्तरतां नियतसुरतां नित्यभोगाममानुषीं दिव्यां तनुं दधतो दधानाः भुवि संप्रति क्वचन न प्रतिष्ठिताः राज्यभ्रंशात्क्वापि स्थितिमप्राप्ताः, अन्यत्र च भुवं न स्पृशन्तीत्यर्थः । देवत्वाद्यस्यारातयः सुरैः सदृशाः । अत्राप्यमुमिति पूर्वेण संबन्धः । श्लिष्टविशेषणेयमुपमा । श्लेष एवेत्यन्ये
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
तो ऽसु क्ष या मा
स्त नु मे का न्त ता मा नु षीम्
भु वि म्प्र ति प्र ति ष्ठि ताः
दृ शा स्य सु रै रा यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.