Loading data... On slow networks this could take a few minutes.
100%

तुहिनांशुममुं सुहृज्जनाः
कलयन्त्युष्णकरं विरोधिनः ।
कृतिभिः कृतदृष्टिविभ्रमाः
स्रजमेके भुजगं यथापरे ॥

मल्लिनाथः (विशेषकम् ।) तुहिनेति ॥ अमुमेवंविधं चैद्यं सुहृज्जनाः तुहिनांशु कलयन्ति आह्लादकत्वाच्चन्द्रं मन्यन्ते । विरोधिनः उष्णकरत्वात् तपनं कलयन्ति । एकस्यानेकप्रतीतिमुपमिमीते । कृतिभिरिति । कृतिभिः कुशलैरैन्द्रजालिकादिभिः कृतदृष्टिविभ्रमा जनितदृष्टिविपर्यया एके नराः यथा स्रजं मालां कलयन्ति, अपरे तु भुजगं कलयन्ति । एकमेव रज्वादिकमिति शेषः । उपमालंकारः, स चैकस्य निमित्तवशाद्गृहीतभेदेनानेकधोल्लिखनात्मकेनोल्लेखेन संकीर्यते
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
तु हि नां शु मुं सु हृ ज्ज नाः
न्त्यु ष्ण रं वि रो धि नः
कृ ति भिः कृ दृ ष्टि वि भ्र माः
स्र मे के भु गं था रे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.