Loading data... On slow networks this could take a few minutes.
100%

समराय निकामकर्कशं
क्षणमाकृष्टमुपैति यस्य च ।
धनुषा सममाशु विद्विषां
कुलमाशङ्कितभङ्गमानतिम् ॥

मल्लिनाथः समरायेति ॥ किंचेति चार्थः । निकामकर्कशमतिकठिनम् । दुर्धर्षमित्यर्थः । समराय संप्रहारायाकृष्टमाहूतमावर्जितं च क्षणम् आशङ्कितभङ्गं मनसोप्रेक्षितस्वपराजयम् अन्यत्रातिकर्षणात्संभावितदलनं यस्य विद्विषां कुलमाशु धनुषा सममानतिं नम्रतामुपैति । अत्र धनुर्नमनकार्यस्य द्विषन्नमनस्य तत्सहभावोक्तेः कार्यकारणयोः पौर्वापर्यविपर्ययनिमित्तरूपातिशयोक्तिमूला सहोक्तिरलंकारः
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
रा नि का र्क शं
क्ष मा कृ ष्ट मु पै ति स्य
नु षा मा शु वि द्वि षां
कु मा ङ्कि ङ्ग मा तिम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.