Loading data... On slow networks this could take a few minutes.
100%

मलिनं रणरेणुभिर्मुहु-
र्द्विषतां क्षालितमङ्गनाश्रुभिः ।
नृपमौलिमरीचिवर्णकै-
रथ यस्याङ्घियुगं विलिप्यते ॥

मल्लिनाथः मलिनमित्यादि ॥ मुहुरसकृत् । रणरेणुभिर्मलिनमत एव द्विषतामङ्गनाश्रुभिः क्षालितं । नाहत्वारीन् रणान्निवर्तत इति भावः । यस्याभियुगं चरणयुगलम् । अथ रेणुक्षालनानन्तरं नृपाणां प्रणतानां राज्ञां मौलिमरीचयो मुकुटमणिरश्मयस्तैरेव वर्णकैर्विलेपनैश्चन्दनैः । `चन्दने चापि वर्णकम्` इति विश्वः । विलिप्यते विशेष्यते । अत्राङ्घ्रियुगस्य विशेषणमहिम्ना स्नातानुलिप्तपुरुषसाम्यप्रतीतेः समासोक्तिः
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
लि नं रे णु भि र्मु हु
र्द्वि तां क्षा लि ङ्ग ना श्रु भिः
नृ मौ लि री चि र्ण कै
स्या ङ्घि यु गं वि लि प्य ते
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.