Loading data... On slow networks this could take a few minutes.
100%

प्रतनूल्लसिताचिरद्युतः
शरदं प्राप्य विखण्डितायुधाः ।
दधतेऽरिभिरस्य तुल्यतां
यदि नासारभृतः पयोभृतः ॥

मल्लिनाथः प्रतन्विति ॥ शरदं शरदृतुं प्राप्य विखण्डितायुधाः खण्डितेन्द्रचापाः अन्यत्र शरान् ददातीति शरदस्तं शरदं शरवर्षिणं प्राप्य खण्डितशस्त्राः प्रतनूल्लसिताचिरद्युतोऽल्पस्फुरितविद्युतः । अन्यत्र प्रतनूल्लसिताः स्वल्पोल्लसितास्त एवाचिरद्युतोऽस्थिरद्युतः । पयोभृतो मेघा आसारभृतः वृष्टिमन्तः न यदि । शरदि वृष्टिशून्यत्वादिति भावः । सुहृद्बलशून्या इत्यर्थः । `आसारः स्यात्प्रसरणे वेगवृष्टौ सुहृद्बले` इति वैजयन्ती । अस्यारिभिस्तुल्यतां दधते । अत्र पयोभृतामुपमानानामुपमेयभावोक्तेः प्रतीपालंकारः । तेषामासारसंबन्धेऽपि संभावनया तदसंबन्धोक्तेरतिशयोक्तिभेदश्चेति संकरः
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
प्र नू ल्ल सि ता चि द्यु तः
दं प्रा प्य वि ण्डि ता यु धाः
ते ऽरि भि स्य तु ल्य तां
दि ना सा भृ तः यो भृ तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.