न तदद्भुतमस्य यन्मुखं
युधि पश्यन्ति भिया न शत्रवः ।
द्रवतां ननु पृष्ठमीक्षते
वदनं सोऽपि न जातु विद्विषाम् ॥

मल्लिनाथः नेति ॥ युधि शत्रवो भियाऽस्य मुखं न पश्यन्तीति यत्तन्नाद्भुतम्, कुतः सोऽपि न ईक्षते ननु खलु । द्रवतां भयात्पलायमानानां विद्विषां पृष्ठं कायपार्श्वाङ्गमीक्ष्यते । जातु कदाचित् वदनं न ईक्षते ननु खलु । द्वयोरन्यतरमुखेष्वन्योन्यस्य मुखविलोकनासंभवात्स्वयं विमुखानां विद्विषामभिमुखस्याप्यस्य मुखादर्शनादद्भुतमिस्यर्थः । अत एव वाक्यार्थहेतुकं काव्यलिङ्गम्
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
द्भु स्य न्मु खं
यु धि श्य न्ति भि या त्र वः
द्र तां नु पृ ष्ठ मी क्ष ते
नं सो ऽपि जा तु वि द्वि षाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.