Loading data... On slow networks this could take a few minutes.
100%

निहतोन्मददुष्टकुञ्जरा-
द्दधतो भूरि यशः क्रमार्जितम् ।
न बिभेति रणे हरेरपि
क्षितिपः का गणनास्य वृष्णिषु ॥

मल्लिनाथः निहतेति ॥ क्षितिपश्चेदिपो निहत उन्मदो दुष्टकुञ्जरः कुवलयापीडाख्यो येन तस्मात् , अन्यत्र हतानेकमत्तमातङ्गात् । अत एव क्रमार्जितं भूरि यशो दधतः । हरेः कृष्णात् , सिंहाच्चेति ध्वनिः । रणे न बिभेति । अस्यैतादृशचैद्यस्य वृष्णिषु यादवेषु मेषेषु च । `वृष्णिस्तु यादवे मेषे` इति विश्वः । का गणना। कृष्णमगणयतो यादवाः के इत्यर्थः । अत्र कुञ्जरघातिनः सिंहस्य का कथा मेषेष्वित्यर्थान्तरप्रतीतिध्वनिरेव न श्लेषः । हरेर्वृष्णिविशेषस्यापि श्लिष्टत्वाअकृताप्रकृतश्लेषे तदङ्गीकारादित्युक्तं प्राक्
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
नि तो न्म दु ष्ट कु ञ्ज रा
द्द तो भू रि शः क्र मा र्जि तम्
बि भे ति णे रे पि
क्षि ति पः का ना स्य वृ ष्णि षु
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.