जनतां भयशून्यधीः परै-
रभिभूतामवलम्बसे यतः ।
तव कृष्ण गुणास्ततो नरै-
रसमानस्य दधत्यगण्यताम् ॥

मल्लिनाथः जनतामिति ॥ हे कृष्ण हे हरे, भयशून्यधीर्निर्भीकचित्तः सन् परैः शत्रुभिरभिभूतां जनतां जनसमूहम् । `ग्रामजन-` (अष्टाध्यायी ४.२.४३ ) इत्यादिना समूहे तल् प्रत्ययः । यतोऽवलम्बसे परिगृह्णासि । रक्षसीत्यर्थः । ततोहेतोर्नररैसमानस्य, अमानुषमहिम्न इत्यर्थः। तव गुणा आर्तभूभरणादयः।अगण्यतामसंख्येयतां दधति॥ परुषस्तु-हे कृष्ण मलिनात्मक, भयशून्यधीर्मूढबुद्धिः परैस्त्वदन्यैः `परं दूरान्यमुख्येषु परोऽरिपरमात्मनोः` इत्युभयत्रापि वैजयन्ती । अभिभूतामवधीरितां जनतां पशुपालनपारतन्त्र्यादिना पृथग्जनत्वम् । भावेऽर्थे तल्प्रत्ययः । यतोऽवलम्बस आश्रयसि । ततो नरैरसमानस्य । ततोऽपि हीनस्येत्यर्थः । तव गुणाः लेशतः स्वभावतोऽपीति भावः । अगण्यतामनादरणीयतां दधति
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
तां शू न्य धीः रै
भि भू ता म्ब से तः
कृ ष्ण गु णा स्त तो रै
मा स्य त्य ण्य ताम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.