Loading data... On slow networks this could take a few minutes.
100%

अहितादनपत्रपस्त्रस-
न्नतिमात्रोज्झितभीरनास्तिकः ।
विनयोपहितस्त्वया कुतः
सदृशोन्यो गुणवानविस्मयः ॥

मल्लिनाथः अहितादिति ॥ त्वया सदृशोऽन्यो गुणवान् गुणाढ्यः कुतः । न कुत्रापीत्यर्थः । कुतस्त्वं अहितादनार्थात्रसन् । अधर्मभीरुरित्यर्थः । अपत्रपो निस्त्रपो न भवतीति अनपत्रपस्त्रपावान् । अकार्यजुगुप्सुरित्यर्थः । अतिमात्रमत्यन्तमुज्झितभीः । त्यक्तारिभय इत्यर्थः । नास्तीति मतिरस्येति नास्तिकः नास्तिपरलोकः । `अस्तिनास्तिदिष्टं मतिः` (अष्टाध्यायी १.४.६० ) इति ठक् । स न भवतीत्यनास्तिकः । आस्तिक इत्यर्थः । विनयेनानौद्धत्येनोपहितो विशिष्टः । विनयवानित्यर्थः । विस्मयो विशिष्टगर्वो न भवतीत्यविस्मयोऽगर्वः॥ `आर्तरक्षणादयः`.&#३२; परुषस्तु-त्वया सदृशोऽन्यो गुणवान्न भवतीत्यगुणवान्निर्गुणः कुतः। न कुत्रापीत्यर्थः । कुतः त्वमहितात् शत्रोस्सन् भीरुः । नास्त्यपत्रपा लज्जाविशेषो यस्येत्यनपत्रपो निर्लज्जः । `लज्जा सापत्रपान्यतः` इत्यमरः । नतिमात्रेण प्रणामेनवोज्झितभीरपाकृतारिभयः, न तु पराक्रमेणेति भावः । अस्ति मतिरस्येत्यातिकोऽस्तिपरलोकः । पूर्ववट्ठक् । स न भवतीत्यनास्तिकः । नास्तिक इत्यर्थः । विनयो नयातीतः अपहितो हितादपेतः विस्मयो विगर्वो न भवतीत्यविस्मयो गर्वी । गर्वयुक्त इत्यर्थः । अत्राहितादित्यर्थश्लेषः । अन्यत्र शब्दश्लेष इत्यनयोः संकरः
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
हि ता त्र स्त्र
न्न ति मा त्रो ज्झि भी ना स्ति कः
वि यो हि स्त्व या कु तः
दृ शो न्यो गु वा वि स्म यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.