अधिवह्निपतङ्गतेजसो
नियतस्वान्तसमर्थकर्मणः ।
तव सर्वविधेयवर्तिनः
प्रणतिं बिभ्रति केन भूभृतः ॥

मल्लिनाथः अधीति ॥ अधिगतं वह्निपतङ्गयोरग्निभान्वोरिव तेजो येन तस्य । तत्तुल्यतेजस इत्यर्थः । नियतस्वान्तो नियतचित्तः स चासौ समर्थकर्मा च । खञ्जकुब्जवद्विशेषणसमासः । तस्य तथोक्तस्य सर्वे विधेयवर्तिनो वशवर्तिनः कर्मकरा यस्य तस्य के भूभृतः प्रणतिं नतिं न बिभ्रति । सर्वेऽपि बिभ्रतीत्यर्थः ॥ परुषस्तु-प्रणामे हेतुमाह-अधिवह्नि अग्नौ पतङ्गस्य शलभस्येव तेजः पौरुषं यस्य तस्य । `पतङ्गः शलभे भानौ` इति विश्वः । नियते अव्यभिचारे स्वान्ते स्वविनाशे समर्थ हेतुभूतं कर्म यस्य तस्य सर्वेषां विधेये वर्तते विधेयं वर्तयति वा सर्वविधेयवर्तिनः सर्वकिंकरस्य निष्पौरुषस्य तव केन गुणेन भूभृतः प्रणति विभ्रति । न केनापीत्यर्थः
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
धि ह्नि ङ्ग ते सो
नि स्वा न्त र्थ र्म णः
र्व वि धे र्ति नः
प्र तिं बि भ्र ति के भू भृ तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.