अचिराज्जितमीनकेतनो
विलसन्वृष्णिगणैर्नमस्कृतः ।
क्षितिपः क्षयितोद्धतान्तको
हरलीलां स विडम्बयिष्यति ॥

मल्लिनाथः अचिरादिति ॥ स क्षितिपः राजा अचिरादविलम्बितमेव जितो मीनकेतनः कार्ष्णिः प्रद्युम्नः, स्मरश्च येन सः । वृष्णयो यादवभेदास्तेषां गणैरोघैर्नमस्कृतो भीत्या प्रणतः सन् । अत एव विलसन् दीप्यमानः । अन्यत्र वृष्णीति पदच्छेदः । वृष्णि उक्षणि विलसन् । वृषारूढ इत्यर्थः । गणैः प्रमथैर्नमस्कृतः । `गणाः प्रमथसंख्यौघाः` इति, `वृषा महेन्द्रे वृषभे` इति च वैजयन्ती । क्षयिता नाशिता उद्धता दृप्ता अन्धका यादवभेदाः । अन्यत्रान्धकोऽसुरो येन सः हरलीलां शंभुविभ्रमं विडम्बयिष्यत्यनुकरिष्यति । अत्र हरलीलामिति` सादृश्याक्षेपान्निदर्शना श्लेषसंकीर्णा
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
चि रा ज्जि मी के नो
वि न्वृ ष्णि णै र्न स्कृ तः
क्षि ति पः क्ष यि तो द्ध ता न्त को
ली लां वि म्ब यि ष्य ति
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.