प्रतिपक्षजिदप्यसंशयं
युधि चैद्येन विजेष्यते भवान् ।
ग्रसते हि तमोपहं मुहु-
र्ननु राह्वाह्वमहर्पतिं तमः ॥

मल्लिनाथः प्रतिपक्षेति ॥ प्रतिपक्षजिदप्यनेकारिहन्तापि भवानसंशयं संशयो नास्ति । अर्थाभावेऽव्ययीभावः । युधि सङ्ग्रामे चैद्येन शिशुपालेन विजेष्यते । जयतेः कर्मणि लट् । शेषे प्रथमः । तमांस्यपहन्तीति तमोपहं सर्वतमोपहारिणम् । `अपे क्लेशतमसोः` (अष्टाध्यायी ३.२.५० ) इति हन्तेर्डप्रत्ययः । अह्रां पतिमहर्पतिं सूर्यम् । `अहरादीनां पत्यादिषूपसंख्यानम्` (वा.) इति वैकल्पिको रेफादेशः । राह्वाह्वां राह्वाख्यं तमः । `आख्यह्वे अभिधानं च` इत्यमरः । मुहुर्ग्रसते नु गिलति हि । अत्र हरिसूर्ययो राहुचैद्ययोश्च वाक्यभेदेन प्रतिबिम्बकरणादृष्टान्तालंकारः
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
प्र ति क्ष जि प्य सं यं
यु धि चै द्ये वि जे ष्य ते वान्
ग्र ते हि मो हं मु हु
र्न नु रा ह्वा ह्व र्प तिं मः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.