हितमप्रियमिच्छसि श्रुतं
यदि संधत्स्व पुरा न नश्यसि ।
अनृतैरथ तुष्यसि प्रियै-
र्जयताज्जीव भवावनीश्वरः ॥

मल्लिनाथः हितमिति ॥ श्रुतं अप्रियं हितमिच्छसि यदि । अप्रियमपि हितमाप्तादाकर्णितं ग्रहीतुमिच्छसि चेदित्यर्थः । संधत्स्व राज्ञा संधेहि । पुरा न नश्यसि । अन्यथा विनयसीत्यर्थः । यावत्पुरानिपातयोर्लट्` (अष्टाध्यायी ३.३.४ ) इति भविष्यदर्थे लट् । अथेति पक्षान्तरे । अनृतैरसत्यैः प्रियैस्तुष्यसि यदि जयताज्जयतु । `तुह्योस्तात आशिष्यन्यतरस्याम्` (७।१॥३५) इति तोस्तातङादेशः । जीव अवनीश्वरः सार्वभौमो भव। ततः किमेभिः प्रियालापैः । अप्रियमपि हितमेव गृहाणेति भावः
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
हि प्रि मि च्छ सि श्रु तं
दि सं त्स्व पु रा श्य सि
नृ तै तु ष्य सि प्रि यै
र्ज ता ज्जी वा नी श्व रः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.