न विदध्युरशङ्कमप्रियं
महतः स्वार्थपराः परे कथम् ।
भजते कुपितोऽप्युदारधी-
रनुनीतिं नतिमात्रकेण सः ॥

मल्लिनाथः नेति ॥ स्वार्थपराः स्वार्थनिष्ठाः परे शत्रवो महतोऽधिकस्य कथमप्रियमपकारम् अशङ्कं यथा तथा न विदध्युः । कुर्युरेव कार्यवशादित्यर्थः । किंतु उदारधीमहामतिः । `उदारो दातृमहतोः` इत्यमरः । स राजा कुपितोऽपि नतिमात्रकेण प्रणतिमात्रकेणानुनीतिमनुनयं भजते । अनुग्रहीष्यतीत्यर्थः । `प्रणिपातप्रतीकारः संरम्भो हि महात्मनाम्` इति भावः
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
वि ध्यु ङ्क प्रि यं
तः स्वा र्थ राः रे थम्
ते कु पि तो ऽप्यु दा धी
नु नी तिं ति मा त्र के सः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.