Loading data... On slow networks this could take a few minutes.
100%

प्रहितः प्रधनाय माधवा-
नहमाकारयितुं महीभृता ।
न परेषु महौजसश्छला-
दपकुर्वन्ति मलिम्लुचा इव ॥

मल्लिनाथः प्रहित इति ॥ प्रधनाय युद्धाय माधवान् यादवानाकारयितुमाह्वातुम् । `युद्धमायोधनं जन्यं प्रधनं प्रविदारणम्` । `हूतिराकारणाह्वानम्` इति चामरः । महीभृता राज्ञाहं प्रहितः प्रेषितः । ननु रन्ध्रे हन्तव्याः शत्रवो नाह्वातव्या इत्यत्राह-नेति । महौजसो महावीराः परेष्वरिषु मलिम्लुचाः पाटच्चरा इव । `पाटच्चरमलिम्लुचाः` इत्यमरः । छलात्कपटात् नापकुर्वन्ति । तस्मादाह्वानं कर्तव्यमिति वाक्यार्थहेतुकं काव्यलिङ्गमुपमालंकारसंकीर्णम्
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
प्र हि तः प्र ना मा वा
मा का यि तुं ही भृ ता
रे षु हौ श्छ ला
कु र्व न्ति लि म्लु चा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.