Loading data... On slow networks this could take a few minutes.
100%

क्षुभितस्य महीभृतस्त्वयि
प्रशमोपन्यसनं वृथा मम ।
प्रलयोल्लसितस्य वारिधेः
परिवाहो जगतः करोति किम् ॥

मल्लिनाथः क्षुभितस्येति ॥ त्वयि विषये क्षुभितस्यातिक्रुद्धस्य महीभृतो राज्ञो मम प्रशमोपन्यसनं शान्युपदेशो वृथा निष्फलः । तथा हि—प्रलयोल्लसितस्य कल्पान्तक्षुभितस्य वारिधेः जगतः परिवाहो जगत्कृतो जलनिर्गममार्गः किं करोति । न किंचिदित्यर्थः । महतां क्षोभ उन्मूल्य विपक्षं निवर्तत इत्यर्थः । दृष्टान्तालंकारः
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
क्षु भि स्य ही भृ स्त्व यि
प्र मो न्य नं वृ था
प्र यो ल्ल सि स्य वा रि धेः
रि वा हो तः रो ति किम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.