Loading data... On slow networks this could take a few minutes.
100%

तदयं समुपैति भूपतिः
पयसां पूर इवानिवारितः ।
अविलम्बितमेधि वेतस-
स्तरुवन्माधव मा स्म भज्यथाः ॥

मल्लिनाथः तदयमिति ॥ तत्तस्माद्युद्धार्थित्वादयं भूपतिश्चैद्यः पयसां पूरः प्रवाह इवानिवारितः समुपैति । हे माधव, अविलम्बितं शीघ्रं वेतसः एधि भव । तद्वन्नम्रमात्मानं रक्षेत्यर्थः । अस्तेर्लोट् सिपि हेर्धिः `ध्वसोरेद्धावभ्यासलोपश्च` (अष्टाध्यायी ६.४.११९ ) इति एत्वम् । `धि* च` (अष्टाध्यायी ८.२.२५ ) इति सकारलोपः। माधव, त्वं तरुवन्महावृक्षवत् मा स्म भज्यथा मा भज्यस्व । अतः आत्मानं न विनाशयेत्यर्थः । भजेः कर्मण्याशिषि लिङः (अर्थे ) `मोत्तरे लङ् च` (अष्टाध्यायी ३.३.१७६ ) इति लङ् `न माङ्योगे` (६७४) इत्यडभावः । उपमालंकारः
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
यं मु पै ति भू तिः
सां पू वा नि वा रि तः
वि म्बि मे धि वे
स्त रु न्मा मा स्म ज्य थाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.