Loading data... On slow networks this could take a few minutes.
100%

अनिरूपिरूपसंप-
दस्तमसो वान्यभृतच्छदच्छवेः ।
तव सर्वगतस्य संप्रति
क्षितिपः क्षिप्नुरभीशुमानिव ॥

मल्लिनाथः अनिरूपितेति ॥ अनिरूपितरूपसंपदः शैलूषवद्बहुरूपधारित्वादज्ञातरूपविशेषस्यावाङ्मनसगोचरस्वरूपवैभवस्येति च गम्यते । अन्यत्र आरोपितं कृष्णरूपं तेजोविशेषाभावस्तम इति च मतद्वयेऽपि प्रमाणानवधृतरूपसंपद इत्यर्थः । अन्यभृतच्छदच्छवेः कोकिलपक्षकान्तेस्तव तमसो वा तिमिरस्येव । वा स्याद्विकल्पोपमयोः` इति विश्वः । सर्वगतस्य क्षितिपश्चेदिपोऽभीशुमानंशुमानिव संप्रतीदानीमेव क्षिप्नुः क्षेप्ता । हन्तेत्यर्थः । शास्तासौ दुरात्मनामिति भावः । `त्रसि&#३२; गृधिषिक्षिपेः नुः` (अष्टाध्यायी ३.२.१४० ) इति क्नु प्रत्ययः । `न लोका-` (अष्टाध्यायी २.३.६९ ) इत्यादिना कृद्योगे षष्ठ्या निषेधे तवेति शेषे षष्ठी । पर्यवसानात्तु कर्मत्वलाभः । `अभीषुः प्रग्रहे रश्मौ` इत्यमरः । विश्वप्रकाशादयः सर्वेऽप्याभिधानिका मूर्धन्यान्तेषु पेठुः । लोकवेदयोस्तु तालव्यान्तो दृश्यते । `अभीशूनां महिमानम्` इत्यादि
छन्दः गीतिः
छन्दोविश्लेषणम्
१० ११ १२
नि रू पि रू सं
स्त सो वा न्य भृ च्छ च्छ वेः
र्व स्य सं प्र
ति क्षि ति पः क्षि प्नु भी शु मा नि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.