Loading data... On slow networks this could take a few minutes.
100%

प्रणतः शिरसा करिष्यते
सकलैरेत्य समं धराधिपैः ।
तव शासनमाशु भूपतिः
परवानद्य यतस्त्वयैव सः ॥

मल्लिनाथः प्रणत इति ॥ भूपतिः चैद्यः सकलैर्धराधिपैः समं सह एत्यागत्य शिरसा प्रणतः प्रणामं कृतवान् । कर्तरि क्तः । आशु तव शासनमाज्ञां करिष्यते त्वदाज्ञाकरो भविष्यति । कुतः । यतः स चैद्योऽस्मिन्नवसरे त्वयैव परवांस्त्वदेकपरतन्त्रः ॥ परुषस्तु--शिरसा प्रणतो नमस्कृतः । नराधिपैरिति भावः । कर्मणि क्तः ।&#३२; भूपतिस्तव शासनं शास्ति शिक्षां करिष्यते । यतस्त्वयैव अद्य स परवान् शत्रुमान् । त्वमेक एवास्य शत्रुरवशिष्ट इति भावः । अन्यत्समानम् । शासनं राजदत्तोर्व्यां लेखाज्ञाशास्त्रशास्तिषु` इति विश्वः
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
प्र तः शि सा रि ष्य ते
लै रे त्य मं रा धि पैः
शा मा शु भू तिः
वा द्य स्त्व यै सः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.