विदुरेष्यदपायमात्मना
परतः श्रद्दधतेऽथवा बुधाः ।
न परोपहितं न च स्वतः
प्रमिमीतेऽनुभवादृतेऽल्पधीः ॥

मल्लिनाथः विदुरिति ॥ बुधा बुद्धिमन्तः एष्यन्तमागामिनं अपायमनर्थं आत्मना स्वयमेव । प्रकृत्यादिभ्य उपसंख्यानात्तृतीया । विदुर्विदन्ति । `विदो लटो वा` (अष्टाध्यायी ३.४.८३ ) इति विकल्पाज्जुसादेशः । अथवा परतोऽन्यस्मादाप्ताकच्छ्रद्दधते विश्वसन्ति । आप्तोक्तं गृह्णन्तीत्यर्थः । `श्रदन्तरोरुपसंख्यानम्` (वा०) इत्युपसर्गसंज्ञोपसंख्यानाद्धातोः प्राक्प्रयोगः । अल्पधीर्मूढस्तु अनुभवादृते स्वानुभवं विना । `अन्यारादितरर्ते-` (अष्टाध्यायी २.३.२९ ) इति पञ्चमी । न प्रमिमीते न जानाति । स्वतः प्रमाता उत्तमः, परतः प्रमाता मध्यमः, अधमस्तु स्वानुभवैकप्रमाण इत्यर्थः । अधमस्त्वमिति भावः । अत एवाप्रस्तुतसामान्यात्प्रस्तुतविशेषप्रतीतेरप्रस्तुतप्रशंसाभेदः
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
वि दु रे ष्य पा मा त्म ना
तः श्र द्द ते ऽथ वा बु धाः
रो हि तं स्व तः
प्र मि मी ते ऽनु वा दृ ते ऽल्प धीः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.