कुशलं खलु तुभ्यमेव
तद्वचनं कृष्ण यदभ्यधामह्- ।
अम् उपदेशपराः परेष्वपि
स्वविनाशाभिमुखेषु साधवः ॥

मल्लिनाथः कुशलमिति ॥ हे कृष्ण, अहं यद्वचनमभ्यधाम् `अभिधाय-` (१६।२) इत्यादिना राज्ञां संधिर्गुणाय विग्रहस्त्वनायेत्येवमवोचमित्यर्थः । तद्वचनं तुभ्यमेव कुशलं हितम् । `चतुर्थी चाशिष्यायुष्यमद्रभद्कुशलसुखार्थहितैः` (अष्टाध्यायी २.३.७३ ) इति चतुर्थी । नन्वहितेषु हितोपदेशात्प्रत्ययः कथमित्याशङ्क्यार्थान्तरन्यासेन परिहरतिसाधवः सुजनाः स्वविनाशाभिमुखेषु । प्रबलविरोधादात्मविनाशहेतुभूतकर्मप्रवृत्तेष्वित्यर्थः । परेषु शत्रुष्वप्युपदेशपरा उपदिशन्त्येव कृपालुतयेति भावः
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
कु लं लु तु भ्य मे
द्व नं कृ ष्ण भ्य धा हम्
दे राः रे ष्व पि
स्व वि ना शा भि मु खे षु सा वः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.