Loading data... On slow networks this could take a few minutes.
100%

विविनक्ति न बुद्धिदुर्विधः
स्वयमेव स्वहितं पृथग्जनः ।
यदुदीरितमप्यदः परै-
र्न विजानाति तदद्भुतं महत् ॥

मल्लिनाथः विविनक्तीति ॥ बुद्ध्या दुर्विधो दरिद्रः । बुद्धिशून्य इत्यर्थः । निःस्वस्तु दुर्विधो दीनो दरिद्रो दुर्गतोऽपि सः` इत्यमरः । पृथग्जनः पामरजनः स्वयमेव परोपदेशं विनैवात्महितं न विविनक्ति तद्युक्तमेवेति भावः । किंतु परैरुदीरितमुपदिष्टमप्यदो हितं न विजानातीति यत्तन्महदद्भुतम् । यतः सूक्तं न गृह्णातीति भावः
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
वि वि क्ति बु द्धि दु र्वि धः
स्व मे स्व हि तं पृ ग्ज नः
दु दी रि प्य दः रै
र्न वि जा ना ति द्भु तं हत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.