विपुलेन निपीड्य निर्दयं
मुदमायातु नितान्तमुन्मनाः ।
प्रचुराधिगताङ्गनिर्वृतिं
परितस्त्वां खलु विग्रहेण सः ॥

मल्लिनाथः विपुलेनेति ॥ उन्मना उत्सुकचेताः स चैद्यः परितः प्रचुरं प्रभूतं यथा तथा अधिगता प्राप्ता अङ्गनिर्वृतिः सुहृत्स्पर्शकृतमङ्गसुखं येन तं त्वां विपुलेन विशिष्टपुलकेन `पुलः स्यात्पुलके नापि पुलं तु विपुलेऽन्यवत्` इति विश्वः । विग्रहेण वपुषा निर्दयं गाढं निपीड्यालिङ्ग्य नितान्तं मुदमायातु खलु ॥ परुषस्तु--उन्मना मनस्वी स चैद्यः प्रचुरेणाधिना मनोव्यथया गताङ्गनिर्वृतिं विगतशरीरसौख्यं त्वां विपुलेन महता विग्रहेण समरेण । `विग्रहः समरे काये` इति विश्वः । निर्दयं निष्कृपं निपीड्य हत्वा मुदमायातु खलु
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
वि पु ले नि पी ड्य नि र्द यं
मु मा या तु नि ता न्त मु न्म नाः
प्र चु रा धि ता ङ्ग नि र्वृ तिं
रि स्त्वां लु वि ग्र हे सः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.