यदनर्गलगोपुरानन-
स्त्वमितो वक्ष्यसि किञ्चिदप्रियम् ।
विवरिष्यति तच्चिरस्य नः
समयोद्वीक्षणरक्षितां क्रुधम् ॥

मल्लिनाथः यदिति ॥ अनर्गलमविष्कम्भम् । विकृतमिति यावत् । `तद्विष्कम्भोऽर्गलं न ना` इत्यमरः । यद्गोपुरं पुरद्वारं तदिवाननं यस्य सः । वाच्यावाच्यविवेकशून्य इत्यर्थः । त्वमितः इतःपरं यत्किंचिदप्रियं वक्ष्यसि तदप्रियं नोस्माकं चिरस्य चिराप्रभृति । `चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः` इत्यव्ययेष्वमरः । समयोद्वीक्षणेन संवित्प्रतीक्षणेन रक्षितां, निरुद्धामित्यर्थः । `समयाः शपथाचार. कालसिद्धान्तसंविदः` इत्यमरः । क्रुधं क्रोधं विवरिष्यति । `वृतो वा` (७।२। ३८) इति दीर्घविकल्पः । इतःपरं त्वमपि दण्ड्य एवेति भावः
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
र्ग गो पु रा
स्त्व मि तो क्ष्य सि कि ञ्चि प्रि यम्
वि रि ष्य ति च्चि स्य नः
यो द्वी क्ष क्षि तां क्रु धम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.