यदपूरि पुरा महीपतिर्न मुखेन स्वयमगसा शतम् । अथ संप्रति पर्यपूपुरत्तदसौ दूतमुखेन शार्ङ्गिणः ॥

मल्लिनाथः यदिति ॥ पुरा पूर्व महीपतिश्चैद्यो मुखेन स्ववाचा यदागसामपराधानां शतम् । `आगोऽपराधो मन्तुश्च` इत्यमरः । शार्ङ्गिणः कृष्णस्य स्वयं नापूरि । नापूरयदित्यर्थः । पूरयतेः कर्तरि लुङ् `दीपजन-` (अष्टाध्यायी ३.१.६१ ) इत्यादिना विकल्पाच्चिण्प्रत्यये चिणो लुक् । अथ स्वप्रलापानन्तरं संप्रतीदानीमसौ चैद्यः दूतमुखेन दूतवाचा तत् आगसां शतं पर्यपूपुरत् परिपूरयामास । दूतमुखत्वाद्राज्ञां तेन कृष्णक्रोधावसरदानेन महदुपकृतमायुष्मतेति भावः । पूरयतेर्लु्ङि `णो चङ्युपधाया ह्रस्वः` । (७४।१) अभ्यासदीर्घः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.