महतस्तरसा विलङ्घय-
न्निजदोषेण कुधीर्विनश्यति ।
कुरुते न खलु स्वयेच्छया
शलभानिन्धनमिद्धदीधितिः ॥

मल्लिनाथः महत इति ॥ कुधीरासन्नविनाशत्वाद्विपरीतबुद्धिमान्महतो महानुभावांस्तरसा बलेन । `तरसी बलरंहसी` इति विश्वः । विलङ्घयन्नाक्रामन्निजदोषेण स्वापराधेनैवोल्लङ्घनरूपेण विनश्यति । तथा हि—इद्धदीधितिर्दीप्तार्चिरग्निः स्वया निजयेच्छया शलभान्पतङ्गान् । `समौ पतङ्गशलभौ` इत्यमरः । इन्धनं दाह्यं न कुरुते खलु, किंतु त एव निजौद्धत्यान्निपत्य दह्यन्त इत्यर्थः । इतः परं न क्षम्यत इति भावः । दृष्टान्तालंकारः
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
स्त सा वि ङ्घ
न्नि दो षे कु धी र्वि श्य ति
कु रु ते लु स्व ये च्छ या
भा नि न्ध मि द्ध दी धि तिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.