मल्लिनाथः
समनद्धति ॥ अङ्गेत्यामन्त्रणे । असौ भूपतिश्चैद्योऽमुना हरिणा सह संधित्सुर्यदि संधातुमिच्छुश्चेत् । दधातेः सन्नन्तादुप्रत्ययः । किं समनद्ध किमर्थं संनद्धवान् । ततो नायं संधित्सुरिति भावः । नातेः स्वरितेत्त्वात्कर्तरि लुङि तङ् `झलो झलि` (अष्टाध्यायी ८.२.२६ ) इति सकारलोपः । कृष्णभीषणार्थं संनाह इत्यत आह-हरिः सिंहः कृष्णश्च किलाक्रमणेनाभिभवेन या भीस्तया संनतिं नम्रता विधीत बिभृयादित्यसंभवः। संभवो नास्ति खल्वित्यर्थः
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.