Loading data... On slow networks this could take a few minutes.
100%

किमिवाखिललोककीर्तितं
कथयत्यात्मगुणं महामनाः ।
वदिता न लघीयसोऽपरः
स्वगुणं तेन वदत्यसौ स्वयम् ॥

मल्लिनाथः किमिति ॥ किंच महामना महात्मा । अखिललोककीर्तितं स्वत एव सर्वैर्लोकः प्रख्यातमात्मगुणं किमिव किमर्थं कथयति । न कथयत्येव । स्वत एव सवैलौकैः कीर्त्यमानत्वादित्यर्थः । लघीयसस्तुच्छस्य तु स्वगुणं वदिता वक्ता । वदेस्तृच्प्रत्ययः । अत एव `न लोका-` (अष्टाध्यायी २.३.६९ ) इत्यादिना षष्टीप्रतिषेधः । अपरोऽन्यो नास्ति तेन कारणेनासौ लघीयान् स्वगुणं स्वयमेव वदति, न केवलं निषेधात् । स्वत्वप्रयोजनत्वादपि महानात्मप्रशंसां न करोति, तुच्छस्तु वक्रन्तरासंभवात् स्वयमेव तां प्रलपतीत्यर्थः । पूर्वार्धे पदार्थहेतुकं काव्यलिङ्गम् , उत्तरार्धे वाक्यार्थहेतुकं चोन्नेयम् । कृष्णचैद्यौ चैवंविधाविति विशेषप्रतीतेरप्रस्तुतप्रशंसा चेति संकरः
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
कि मि वा खि लो की र्ति तं
त्या त्म गु णं हा नाः
दि ता घी सो ऽप रः
स्व गु णं ते त्य सौ स्व यम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.