प्रकटान्यपि नैपुणं मह-
त्परवाच्यानि चिराय गोपितुम् ।
विवरीतुमथात्मनो गुणा-
न्भृशमाकौशलमार्यचेतसाम् ॥

मल्लिनाथः प्रकटानीति ॥ आर्यचेतसां सुमनसां प्रकटान्यपि परवाच्यानि परदूषणानि चिराय गोपितुं गोपायितुम् । संवरीतुमित्यर्थः । `आयादय आर्धधातुके वा` (३।१॥३१) इति विकल्पादायप्रत्ययाभावः । महन्नैपुणं कौशलम् । अथेति वाक्यारम्भे । अथात्मनो गुणान्विवरीतुं प्रकटयितुम् । आत्मप्रशंसां कर्तुमित्यर्थः । भृशमाकौशलमत्यन्तमकौशलम् । साधवो न परान्निन्दन्ति न वात्मानं प्रशंसन्ति `आत्मप्रशंसां परगर्हामिव वर्जयेदि`त्यापस्तम्बीये निषेधस्मरणादिति भावः `नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम्` (७३।३०) इति विकल्पान्नपूर्वपदस्यापि वृद्धिः । कृष्णश्चैवंभूत इति विशेषप्रतीतेरप्रस्तुतप्रशंसैव
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
प्र टा न्य पि नै पु णं
त्प वा च्या नि चि रा गो पि तुम्
वि री तु था त्म नो गु णा
न्भृ मा कौ मा र्य चे साम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.